४१०

\अन्नं वै व्रतम् ।

मध्यतो वा अन्नमशितं धिनोतीति ।

तदु वा आहुरर्धं वा एतेऽन्नाद्यस्यावरुन्धते ये मध्यतस्संवत्सरस्य विषुवति महाव्रतमुपयन्ति ।

संवत्सरः कृत्स्नमन्नाद्यं पचति ।

तदुपरिष्टात्संवत्सरस्योपेत्यं कृत्स्नस्यैवान्नाद्यस्यावरुद्ध्या इति ।

अथ ह स्माह नगरी जानश्रुतेय उग्रो वा एष मध्यमशीवा यन्महाव्रतम् ।

यद्वा उग्रो मध्यमशीवा भवति सर्वान्वै सोऽन्यान्व्यवकीर्याथैकश्शेते ।

तदुपरिष्टादेव संवत्सरस्योपेत्यं कृत्स्नस्यैवान्नाद्यस्यावरुद्ध्या इति ।

तत्पञ्चविंशं भवति ।

चतुर्विंशत्यर्धमासो वै संवत्सरः ।

अन्नाद्यं पञ्चविंश्यन्नाद्यमेवैतत्पञ्चविंश्योपधीयते ।

स यथा पूर्णोध्नीमुपसद्य दुहीतैवमेवैतत्पञ्चविंश्यान्नाद्यं दुह्रे ४१०