प्रजापतिः प्रजास्ससृजानस्स व्यस्रंसत ।
तस्माद्देवता व्युदक्रामन् ।
तमिन्द्र एव देवतानां नाजहात् ।
स इन्द्र मब्रवीत्कथं न्वहमितः पुनरन्वाभवेयमिति ।
किङ्खलु वै तेऽस्तीत्यब्रवीत् ।
स्तो न्वै म इमौ प्राणापानाविति ।
यत्स्तो म इत्यब्रवीत्तत्स्तोमस्य स्तोमत्वम् ।
स्तुवत एनं स्वा अयं न श्रेष्ठ इति य एवं वेद ।
तमब्रवीत्स वा एताभ्यामेव संवत्सरं स्तुष्व ।
तं त्वैताभ्यामेव तुष्टुवानमुपरिष्टात् संवत्सरस्य सर्वा देवतास्समभ्यवैष्यन्तीति ।
स एताभ्यामेव संवत्सरमस्तुत ।
तमेताभ्यामेव तुष्टुवानमुपरिष्टात्संवत्सरस्य सर्वा देवतास्समभ्यवायन्दिशां रसं प्रवृह्यापां रसं वेदस्य रसमन्नस्य रसं महते व्रतं हरामो महते व्रतं हराम इति वदन्तीः ।
ता यदब्रुवन्महते व्रतं हराम इति तन्महाव्रतस्य महाव्रतत्वम् ।
तदस्मै प्रायच्छन् ।
तदव्रतयत् ।
ताः प्रामोदन्त महाव्रतयतीति महाव्रतयतीति ।
तस्मादेतस्मिन्नहन्प्रैव मोदन्ते ।
देवता ह्यस्मिन्प्रामोदन्त ।
तदाहुर्मध्यतस्संवत्सरस्य विषुवत्युपेत्यम् ४०९