४०८

नेष्टैकविंशेन पुच्छेन भद्रे णोद्गायति ।

इदं तत्पुच्छं प्रतिदधाति ।

तस्मादिदं पुच्छं प्रतिहितम् ।

पराचीभिरपुनरभ्यावर्तम् ।

तस्मादिदं पुच्छं सं चाञ्चति प्र च सारयति ।

तिस्रस्सतीरेकविंशतिं करोति ।

तस्मादिदं पुच्छं मेद्यतोऽनुमेद्यति कृश्यतोऽनुकृश्यति ।

उद्गाता पञ्चविंशेनात्मना राजनेनोद्गायति ।

इमं तदात्मानं प्रतिदधाति ।

तस्मादयमामा प्रतिहितः ।

पराचीभिरपुनरभ्यावर्तम् ।

तस्मादिदमात्मानं सं चाञ्चति प्र च सारयति ।

तिस्रस्सतीः पञ्चविंशतिं करोति ।

तस्मादयमात्मा मेद्यतोऽनुमेद्यति कृश्यतोऽनुकृश्यति ।

त एकैकयास्तुतयोद्गातारमुपसमायन्ति ।

ताभिरुद्गातोद्गायति ।

आत्मन्नेव तदङ्गानि प्रतिदधाति ।

तस्मादात्मन्नङ्गानि प्रतिहितानि ।

आत्मन्ययोत्तमयोद्गायति ।

तस्मादिदमात्मन उदिव शेते ४०८