४०७

ते सकृदेव सर्वे हिङ्कुर्वन्ति ।

तस्मात्पुरुषस्संविद्धो जायते ।

उद्गातुर्हिङ्कारमनु हिङ्कुर्वन्ति ।

तस्मादात्मनो वशमङ्गानि यन्ति ।

अध्वर्युस्त्रिवृता शीर्ष्णा गायत्रेणोद्गायति ।

इदं तच्छिरः प्रतिदधाति ।

तस्मादिदं शिरः प्रतिहितम् ।

पराचीभिरपुनरभ्यावर्तम् ।

तस्मादिदं शिरः पराङेव नेति नेति ।

नवभिरुद्गायति ।

तस्मादिदं शिरो न मेद्यतोऽनुमेद्यति न कृश्यतोऽनुकृश्यति ।

मैत्रावरुणः पञ्चदशपक्षेण बृहतोद्गायति ।

इमं तद्बाहुं प्रतिदधाति ।

तस्मादयं बाहुः प्रतिहितः ।

पराचीभिरपुनरभ्यावर्तम् ।

तस्मादिदं बाहुं सं चाञ्चति प्र च सारयति ।

तिस्रस्सतीः पञ्चदस करोति ।

तस्मादयं बाहुर्मेद्यतोऽनुमेद्यति कृश्यतोऽनुकृश्यति ।

वीर्यं वै बृहद्वीर्यं पञ्चदशः ।

तद्यत्पञ्चदशेन पक्षेण बृहतोद्गायति तस्मादयं बाह्वोर्वीर्यवत्तरः ।

तस्मादु दक्षिणं पक्षं वयांस्यनु परिप्लवन्ते ।

पुंसो वा एतद्रू पं यद्बृहत्स्त्रियै रथन्तरम् ।

तद्यदितो बृहता स्तुवत इतो रथन्तरेण तस्मात्पुमान्दक्षिणतो योषामुपशेते ।

ब्राह्मणाच्छंसी सप्तदशेन पक्षेण रथन्तरेणोद्गायति ।

इमं तं बाहुं प्रतिदधाति ।

तस्मादयं बाहुः प्रतिहितः ।

पराचीभिरपुनरभ्यावर्तम् ।

तस्मादिमं बाहुं सं चाञ्चति प्र च सारयति ।

तिस्रस्सतीस्सप्तदश करोति ।

तस्मादयं बाहुर्मेद्यतोऽनुमेद्यति कृश्यतोऽनुकृश्यति ४०७