४०६

ते स्तोष्यन्तो विपरायन्ति ।

अध्वर्युस्त्रिवृता शीर्ष्णा गायत्रेण स्तोष्यन्नग्रेण हविर्धाने उपविशति मैत्रावरुणः पञ्चदशेन पक्षेण बृहता स्तोष्यन्दक्षिणत उपविशति ब्राह्मणाच्छंसी सप्तदशेन पक्षेण रथन्तरेण स्तोष्यन्नुत्तरत उपविशति नेष्टैकविंशेन पुच्छेन भद्रे ण स्तोष्यन्पत्नीनां मध्य उपविशत्युद्गाता पञ्चविंशेनात्मना राजनेन स्तोष्यन्नौदुम्बरीमधिरोहत्यूर्ग्वा अन्नमुदुम्बर ऊर्ज एवान्नाद्यस्यावरुद्ध्यै ।

तामभिमन्त्रयते बृहद्र थन्तरे ते पूर्वौ पादौ वैरूपवैराजेऽपरौ शाक्वररैवतेऽनूच्यानि छन्दांस्यास्तरणं यजूंषि विवयनं स्योनामासदं सुषदामासदमिति ।

तस्यै प्रत्यवरोहो

मही द्यौः पृथिवी च न इमं यज्ञं मिमिक्षताम्

पिपृतां नो भरीमभिः

इति ४०६