४०५

मागधं च पुंश्चलूं च दक्षिणे वेद्यन्ते मिथुनीकारयन्ति मिथुनत्वाय प्रजननाय ।

प्र मिथुनेन जायते य एवं वेद ।

आर्यं च वर्णं शौद्रं चोपर्युपरि चात्वालं बस्ताजिने व्यायमयन्त्यार्षभे वा चर्मणि ।

तयोरन्तर्वेद्यार्यो वर्णो भवति बहिर्वेदि शौद्रः ।

तयोरार्येण वर्णेन शौद्रं वर्णं ज्यापयन्ति ।

देवाश्च वा असुराश्चामुष्मिन्नादित्येऽस्पर्धन्त ।

तं देवा असुराणामवृञ्जत ।

तद्यदार्येण वर्णेन शौद्रं वर्णं ज्यापयन्त्येतमेव तद्द्विषतो भ्रातृव्यस्य वृञ्जते ।

तयोरान्यः क्रोशति प्रान्यश्शंसति ।

य आक्रोशति पुनात्येवैनान्सः ।

अथ यः प्रशंसति पूतेष्वेवैतेषु स इन्द्रि यं वीर्यं दधाति ।

आजिं धावन्ति ।

परमं वा एतन्महो यदाजिः परमस्यैव महसोऽवरुद्ध्यै ।

सन्नद्धा भवन्ति ।

परमा वै सन्नद्धे त्विषिः ।

परमामेव तत्त्विषिमात्मसु दधते ।

पूर्णकुम्भा मार्जालीयं पर्यायन्ति पूर्णस्यैवावरुद्ध्यै ।

है महा है महा इति महसोऽवरुद्ध्यै ।

इदं मध्विदं मध्विति मध्विव वा एतद्देवेभ्यः क्रियते यन्महाव्रतम् ।

परमो वै मधुनि रसः परमस्यैव रसस्यावरुद्ध्यै ।

तदाहुरीश्वरा आद्या भवितोर्यद्धै महा इदं मध्विति गायन्तीः पर्येयुः ।

है महामेव गायन्तीः पर्येयुरिति ।

तदु होवाच शाट्यायनिर्यदा वै भवति यदास्त्यथाद्यो भवति ।

किमसतोऽद्युः ।

है महा इदं मध्वित्येव गायन्तीः पर्येयुरिति ४०५