४०४

सप्ताशीतिर्महाव्रतस्य स्तोत्र्या भवन्ति त्रयोदश परिमादः ।

तच्छतम् ।

शतायुर्वै पुरुषश्शतेन्द्रि यश्शतवीर्यस्तस्यैवेन्द्रि यस्य वीर्यस्यावरुद्ध्यै ।

अथैता वाचः प्रवदन्ति ।

क्षुद्राः परिमादः कर्करी चालाबुश्च वक्रा च कपिशीर्ष्णी चैषीकी चापाघाटलीका च वीणा च कश्यपी च भूमिदुन्दुभिश्चार्षभेण चर्मणाभिविहतो वाणश्च शततन्त्रीः ।

अन्तरिक्षे दुन्दुभयो वितता वदन्ति ।

अधिकुम्भाः पर्यायन्ति ।

एता वाचः प्रवदन्ति सर्वस्यै वाचोऽवरुद्ध्यै कृत्स्नायै वाचः कृत्स्नां वाचमवरुणधामहा इति ।

तद्यद्भूमिदुन्दुभिरार्षभेण चर्मणाभिविहतो वदति परमा वा ऋषभो वाक्परमस्या एव वाचोऽवरुद्ध्यै ।

अन्तरिक्षे दुन्दुभयो वितता वदन्ति यैवान्तरिक्षे वाक्तामेव तेनावरुन्धते ।

अधिकुम्भाः पर्यायन्त्येतद्वै प्रत्यक्षं दिवो रूपं यन्मूर्धा यैवामुष्यां वाक्तामेव तेनावरुन्धते ।

वाणं शततन्त्रीमाघ्नन्ति शतायुर्वै पुरुषश्शतेन्द्रि यश्शतवीर्यस्तस्यैवेन्द्रि यस्य वीर्यस्यावरुद्ध्यै ४०४