तत्पञ्चविंशं कृत्वा स्तुवते व्रतस्यानतिष्टवाय यद्वेव प्रति भूतेच्छन्दसांव्रतेन स्तुवते
हरी त इन्द्र श्मश्रूण्युतो ते हरिता हरी
तं त्वा स्तुवन्ति कारवः पुरुषासो वनर्गवः
ऋद्ध्यास इन्द्र भुङ्ङिति मघवन्निन्द्र भुङ्ङिति
इन्द्र स्त्रसरपूतः
स्फिगि पुनःपुनस्त्रसरस्फिगिर्
इति ।
एतावद्ध वा अस्यैकमङ्गमनास्तुतमास यत्स्फिगौ ।
अनास्तुतेनैनमङ्गेन स्तुवन्ति ।
ऋद्धिष्णवो ह भवन्त्येनेन तुष्टुवानाः ।
तदाहुः कस्मै कं परिमादः क्रियन्त इति ।
यथा ह वै शारद उक्षैवं महाव्रतम् ।
स यथा शारदमुक्षाणं वागराभिः परितत्यालभेरन्नेवमेवैतत्परिमाद्भिर्महाव्रतमालभन्ते व्रतस्याप्रक्षयाय ।
अथो यथैवेदं पुरुषस्य केशा नखा लोमानि श्मश्रूणि तथैवास्यैतदिति ।
अथो यदेवेदं पुरुषमभितो गौरश्वोऽजाविर्व्रीहयो यवास्तदेवास्यैतदिति ४०३