४०२

श्लोकानुश्लोकाभ्यां स्तुवते ।

श्लोकेन पुरस्तादनुश्लोकेन पश्चात् ।

तद्यच्छ्लोकेन स्तुवते पुण्यं श्लोकमवरुणधामहा इति ।

अथ यदनुश्लोकेन पुण्योऽनुश्लोक उत्तस्थुषोऽनूत्तिष्ठादिति ।

निह्नवाभिनिह्नवाभ्यां स्तुवते ।

निह्नवेन पुरस्तादभिनिह्नवेन पश्चात् ।

तदाहु श्रेयांसं वा एतेऽभ्यारोहन्ति ये संवत्सरमिति ।

तद्यन्निह्नवेन स्तुवते श्रेयस एव तन्निह्नुवतेऽभ्येवाभिनिह्नवेनारोहन्ति ।

यदु चेहाकर्म तदु च मापह्नोष्महा इति ।

तथा हैषां तदनुमोदितं भवति ।

अङ्गिरसां षड्विंशत्यक्षरणिधनेनान्तस्सदसं स्तुवते ।

जघनेनौदुम्बरीमङ्गिरोभ्य एतद्देवेभ्यो निवेदयन्तेऽरात्स्मेति ४०२