अग्नेरपिपक्षं प्रति सत्रस्यर्द्ध्या स्तुवते ।
अग्नय एव तद्देवेभ्यो निवेदयन्तेऽरात्स्मेति ।
व्रतपक्षाभ्यामभितो हविर्धाने ।
स्वर्गाय वा एते लोकाय दीक्षन्ते ये संवत्सराय ।
तद्यद्व्रतपक्षाभ्यां स्तुवते आत्मन्नेव तत्पक्षौ प्रतिदधते स्वर्गस्य लोकस्य पतनाय ।
तस्मादात्मन्पक्षौ प्रतिहितौ ।
प्राणापानाभ्यां स्तुवते ।
प्राणेन पुरस्तादपानेन पश्चात् ।
तदाहुर्वीव वा एते प्राणापानाभ्यामृध्यन्ते ये यज्ञियस्य कर्मणोऽतिपादयन्ति यदि वा नातिपादयन्ति ।
को हि तद्वेद यदि तेऽति वा पादयन्ति न वा ।
तद्यत्प्राणापानाभ्यां स्तुवते प्राणापानाभ्यामेव तत्समृध्यन्ते ४०१