४००

इन्द्रा सुतेषु सोमेषु होयेहूहो इत्येवैनान्प्रासेधत् ।

तेऽब्रुवन्सत्रा वै नोऽत्युदसीत्सस् ।

तथा नोऽन्वीक्षस्व यथा न एतस्मिल्ँ लोके अन्वाभजा इति ।

तानेतेनैवानुक्रोशेनेन्द्रा हो इह वेहो इत्येवास्मिल्ँ लोकेऽन्वाभजत् ।

ततो वै त उभयोरनयोर्लोकयोः प्रत्यतिष्ठन् ।

क्रोशेनैव स्वर्गं लोकमगच्छन्ननुक्रोशेनास्मिन्प्रत्यतिष्ठन् ।

ते य एवं विद्वांसः क्रोशानुक्रोशाभ्यां स्तुवत उभयोरेवानयोर्लोकयोप्रतितिष्ठन्ति क्रोशेनैव स्वर्गं लोकं गच्छन्त्यनुक्रोशेनास्मिन्प्रतितिष्ठन्ति ४००