सोऽस्यां प्राच्यां दिशि पुरं वैधात्रमदधात् ।
तस्य प्राचीन आहुर्यायणः पुरोहितः ।
सोऽस्यां दक्षिणायां दिश्यधराहिं वैधात्रमदधात् ।
तस्य दक्षिण आहुर्यायणः पुरोहितः ।
सोऽस्यां प्रतीच्यां दिशि पश्चं वैधात्रमदधात् ।
तस्य प्रतीचीन आहुर्यायणः पुरोहितः ।
सोऽस्यामुदीच्यां दिश्युत्तराहिं वैधात्रमदधात् ।
तस्योदीचीन आहुर्यायणः पुरोहितः ।
ते देवा विधातारमब्रुवन्नेवमु चेत्त्वमेतदधिथास्तथास्मानन्वीक्षस्व यथा वयं स्वस्ति स्वर्गं लोकं गच्छेमेति ।
तानेतेन क्रोशेनान्वैक्षत ३९९