३९८

अध्वर्युर्ग्रहं गृहीत्वा द्र वति ।

स आहोपावर्तध्वमिति ।

ते हिङ्कृत्यैव प्राञ्चो निष्क्रम्याग्रेणाग्नीध्रं तिष्ठन्तो विश्वेषां देवानां व्रतेन स्तुवते ।

विश्वेभ्य एव तद्देवेभ्यो निवेदयन्तेऽरात्स्मेति ।

ते प्राञ्चोऽभिक्रम्य चात्वालमवेक्षमाञाः क्रोशेन स्तुवते ।

देवानां वा अन्तं जग्मुषामिन्द्रि यं वीर्यमपाक्रामत् ।

तत्क्रोशेनैवावरुन्धत ।

अन्तमिवैते गच्छन्ति ये संवत्सरस्योदृचमश्नुवते ।

तद्यत्क्रोशेन स्तुवत इन्द्रि यस्यैव वीर्यस्यावरुद्ध्यै ।

अथानुक्रोशम् ।

देवा वै यत्र त्र्यहेण स्वर्गं लोकमायंस्तद्धैषामेतत्तृतीयमहर्वैरूपं व्यार ।

तस्यैष् श्लोको

वैरूपं देवा अभिसंवसानास्तदातस्थुस्तदु हैषां व्यार

ते हिङ्कृत्य पुनरारुह्य सर्व अवाधून्वत जरसं तनूनाम्

इति ।

तस्य एवैषा श्लोको

यद्वैरूप उपहते व्यद्ध्वे हिङ्कृण्वन्तस्समतिष्ठन्त यामन्

तद्देवस्थानमसृजन्त साम तेन देवासो अमृतत्वमायन्

इति ।

ते यत्र स्वर्गं लोकमायंस्तद्विधाता पुत्रानब्रवीन्मा यूयमादृढ्वमिहैवाहं युष्मान्विधास्यामीति ३९८