अथ ह स्माह सिरिन्दः पालालिरमावास्यायामेवोत्सृज्यमिति ।
अमावास्यायां वा एतद्देवता उदसृजन्त ।
देवतानामुत्सृष्टिमनूत्सृजामहा इति ।
एते उ ह वै संवत्सरस्य मेध्ये रात्री यत्पौर्णमासी चामावास्या च ।
तद्यत्पौर्णमासीं चामावास्यां चोत्सृजेरन्संवत्सरं मेधेनव्यर्धयेयुः ।
त्रिवृदेवाग्निष्टोमः कार्य इति ।
तस्य यन्न्यूनानि स्तोत्राणि भवन्ति तेनैवोत्सृष्टं च न चेति ।
अथ ह स्माह नगरी जानश्रुतेय एकत्रिक एवोपेत्य इति ।
तस्य यच्छ्वाङ्क्षितानीव स्तोत्राणि भवन्ति तेनैवोत्सृष्टं च न चेति ।
अथ ह स्माहारुणिर्यावेवैतौ गोआयुषी स्तोमौ ताभ्यामेवोत्सृष्टं च न चेति ।
तयोर्यस्य न्यूनानि स्तोत्राणि तेनोत्सृष्टं यस्यातिरिक्तानि तेनानुत्सृष्टम् ।
तस्मादेतावेवोपेत्याविति ३९७