अथ ह स्माह कुसुर्बिन्द औद्दालकिरुत्सृज्यं चैव न नेति ।
यदेवाद्याहरुत्सृजेरंस्तच्छ्वो भूते प्रतिसङ्ख्यायोपप्रस्तुयुः ।
तेनैवोत्सृष्टं च न चेति ।
अथो यावन्त्येवाहान्युत्सृजेरंस्तानि सङ्ख्यायोपरिष्टादतिरात्रस्योपेयुः ।
तेनो एवोत्सृष्टं च न चेति ।
अथ ह स्माह भाल्लबेय उक्थान्येवोत्सृज्यानीति ।
प्रजा वै पशव उक्थानि ।
प्रजा एव तत्पशूनुत्सृजन्ते ।
अथो यथा दृतिम्पदोच्छ्वासयेत्तादृक्तत् ।
तदाहुरुत्सृज्यमेवेति ।
प्रजापतिरेष यत्संवत्सरः ।
तस्यैते प्राणाः पर्वाणि यत्पौर्णमास्यश्चामावास्याश्च ।
यथा ह वा इदं दृतिरभिध्मातश्शोचेदेवं ह वा एष प्रजापतिः पशूञ्छोचयत्यनुत्सृज्यमानः ।
तद्यत्पौर्णमासीश्चामावास्याश्चोत्सृजन्तेऽङ्गान्येवास्य तत्प्राणान्पर्वाणि प्रसारयन्ति नेन्नस्संवत्सरश्शुशुचानो हिनसदिति ।
तमीं हिन्वन्त्यग्रुव इति श्वो भूते प्रतिपदं कुर्वीरन् ।
तद्यथा दृतिमुच्छ्वासितं पुनरभिधमेत्तादृक्तत् ।
धमन्ति बाकुरं दृतिं त्रिधातु सारघं मध्विति संवत्सरो वै बाकुरो दृतिर्यज्ञस्त्रिधातुर्ब्राह्मणास्सरघास्त एवैतन्मधु कुर्वन्ति ३९६