तदु होवाचारुणिरषाढं सावयसमुत्ससृजानं होता छिद्रे संवत्सर आस्त इति ।
स होवाच मा न एवं ब्रवीरुप वै वयं तमुपरिष्टाद्द्वादशरात्रमैमेति ।
तं ह तदुपजगौ
ज्यायो वा हि कनीयो वा न हि वा तेन तत्समम्
कपालमन्यथा सत्यछिद्र उपधीयते
इति वा अहमेतद्धोतुर्मन्ये ।
छिद्रं वा अहं तेषां संवत्सरं मन्ये य उत्सृजन्ते ।
अथो हैषां तदन्यथेव सत्रमुपेतं भवति ।
यथा वै शश एवं यज्ञः ।
यो वै शशमुत्सर्गं लिप्सते नैनं स गृह्णाति ।
अथ य एनमनुत्सर्गं लिप्सते स एवैनं गृह्णाति ।
उत्सर्गमेवैतल्लिप्सन्ते य उत्सृजन्ते ।
तस्मान्नैवोत्सृज्यमिति ३९५