ते यदहरुत्सृजेरन्निन्द्रा य वसुमते पूर्वाह्णे पुरोडाशमष्टाकपालं निर्वपेयुः ।
इन्द्रा य रुद्र वते मध्यन्दिने पुरोडाशमेकादशकपालं निर्वपेयुः ।
इन्द्रा यादित्यवतेऽपराह्णे पुरोडाशं द्वादशकपालं निर्वपेयुः ।
एतासां वै देवतानां सवनानि भाजनं तन्न सवनेनैभ्यो यन्ति न देवता अन्तर्यन्ति ।
प्रजापतिरेष यत्संवत्सरः ।
तस्यैते प्राणापाना यत्पौर्णमास्यश्चामावास्याश्च ।
तद्यत्पौर्णमासीश्चामावास्याश्चोत्सृज्यन्ते प्रजापतेरेव तत्प्राणापानानुत्सृजन्ते ।
तमेतमुपरिष्टात्संवत्सरस्य चतुर्विंशतिरात्रमुपयन्ति ।
अथो आहुः पौर्णमासीरेवोत्सृज्या इति ।
प्राणाभाजना वै पौर्णमास्यपानभाजनामावास्या ।
बहिर्वै सन्तं प्राणमुपजीवन्त्यन्तस्सन्तमपानम् ।
तद्यत्पौर्णमासीरुत्सृजन्ते बहिस्सन्तं प्राणमुपजीवामान्तस्सन्तमपानमिति ।
तमेतमुपरिष्टाद्द्वादशरात्रमुपयन्ति ३९४