३९३

उत्सृज्या३ं नोत्सृज्या३मिति मीमांसन्ते ।

तदाहुरुत्सृज्यमेवेति ।

यो वा अविमोकं यात्युद्वा वै स कृन्तति प्र वा क्षिणोति ।

अविमोकमिवैते यन्ति ये नोत्सृजन्ते ।

तद्यत्पौर्णमासीरुत्सृजन्तेऽरिष्ट्या एव ।

यो वै पूर्ण आवपति वि वा वै तत्पतति प्र वा शीर्यते ।

पूर्ण एष यत्संवत्सरः ।

तद्यत्पौर्णमासीरुत्सृजन्तेऽरिष्ट्या एव ।

ऊनाद्वै रेतस्सिच्यत ऊनात्प्रजाः प्रजायन्ते ।

पूर्ण एष यत्संवत्सरः ।

तद्यत्पौर्णमासीरुत्सृजन्ते रेतस एव तल्लोकं कुर्वन्ति प्रजननाय ।

ऊनाद्वै प्राणा ईरते ।

प्रजापतिरेष यत्संवत्सरः ।

तस्यैते प्राणा यत्पौर्णमास्यः ।

तद्यत्पौर्णमासीरुत्सृजन्ते प्रजापतेरेव तत्प्राणानुत्सृजन्ते ।

पौर्णमासीस्तोमा ह खलु वै देवाः ।

तद्यत्पौर्णमासीरुत्सृजन्ते को देवान्प्रत्यभिष्टोतुमर्हतीति ३९३