३९२

शक्तिं ह वासिष्ठं सौदासा अग्नौ प्रासुः ।

स ह प्रास्यमान उवाचेन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथेति ।

एतावद्धैवास्य व्याहृतमास ।

अथ हैनमग्नौ प्रासुः ।

अथ ह वसिष्ठ आजगाम ।

स होवाच किं मे पुत्रः प्रास्यमानोऽब्रवीदिति ।

तस्मै होचुरिन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथेत्येतावदेवास्य व्याहृतमासीदथैनमग्नौ प्रास्यन्निति ।

स होवाच शिक्षा णोऽस्मिन्पुरुहूत यामनि जीवा ज्योतिरशीमहीति यन्म एतमुत्तरमर्धर्चं पुत्रः प्राप्स्यन्न चैवैनमग्नौ प्रासिष्यन्सर्वमु चायुरयिष्यत् ।

यैव कुरुतमा देवतानामभूत्तामुपासरत् ।

ऋध्नवंस्ते सत्रिणो ये म एतेन पुत्रस्य प्रगाथेन स्तवान्ता इति ।

स एष ऋद्धिप्रागुभितः प्रगाथः ।

ऋद्धिष्णवो ह भवन्त्येनेन तुष्टुवानाः ।

गौश्चायुश्च स्तोमौ भवतः प्रतिष्टित्यै ।

ऊनातिरिक्तौ भवतः प्रजननाय ।

वैराजौ भवतोऽन्नाद्यस्यैवावरुद्ध्यै ।

पृष्ठ्यष्षडहो भवति ।

श्रीर्वै वर्ष्म पृष्ठानि ।

तदु श्रियं वर्ष्म पृष्ठान्यूर्ध्वा रोहन्ति ।

छन्दोमा भवन्ति पशवो वै छन्दोमाः पशूनामेवावरुद्ध्यै ।

दशममहर्भवति दशाक्षरा विराडन्नं विराड्विराज एवान्नाद्यस्यावरुद्ध्यै ।

अयं सहस्रमानव इति पुरा तूष्णीं स्तोमादेतास्वतिछन्दस्सु स्तोतव्यमाहुः ।

अति वा एषो अन्यानि छन्दांसि यदतिछन्दाः ।

अत्येतेऽन्यान्ये संवत्सरसदः ।

स्व एवैतच्छन्दसि प्रतितिष्ठन्ति ।

एकाक्षरणिधनं साम भवति ।

एकाक्षरा वै वाक् ।

वाचमेवैतद्दशमेनाह्ना सम्पादयन्ति ।

गोरिति निधनं भवति गौर्वै कृत्स्नमन्नाद्यं कृत्स्नस्यैवान्नाद्यस्यावरुद्ध्यै ।

तदाहुरतिष्टुतानुष्टुप्स्याद्यदेतदत्र कुर्युः ।

नेद्वाचमतिष्टवामेति वै मनसा तूष्णीं स्तोमेन स्तुवन्ति ।

अत्रो वावैतद्वाचा सम्पन्नम् ।

तस्मादेतदत्र न कार्यमिति ३९२