आत्मा वै संवत्सरस्य विषुवान्पक्षावभितो येन चेतोऽभीवर्तेन यन्ति येन चामुतः प्रगाथेन प्रत्यवरोहन्ति तावुभौ विषुवति कुर्युः ।
आत्मन्नेव तत्पक्षौ प्रतिदधते स्वर्गस्य लोकस्य पतनाय ।
तस्मादात्मन्पक्षौ प्रतिहितौ ।
तदाहुः प्रेव वा एतेऽस्माल्लोकाच्च्यवन्ते य एतान्पराचष्षडहान्पराच स्तोमान्पराञ्चि पृष्ठानि पराञ्चि छन्दांस्युपयन्तीति ।
तद्यत्परस्ताद्विषुवतोऽर्वाचष्षडहानुपयन्त्यस्मिन्नेवैतल्लोके प्रतितिष्ठन्ति ।
अद्याद्या श्वश्वो वयमेनमिदा ह्यस्त्वामिदा ह्यो नरः क्वेयथ क्वेदसि । इन्द्र त्रिधातु शरणमिति सन्तनयः प्रगाथा भवन्त्यद्यश्वस्यैव सन्तत्यै ।
अद्य चैव ते श्वश्च सन्तन्वन्ति ।
अयातयामानमु संवत्सरमासते ।
तदाहुरिन्द्र क्रतुं न आ भरेत्येतास्वावतीषु स्तोतव्यमह्नो रूपेणेति ।
पिता पुत्रेभ्यो यथा
शिक्षा णो अस्मिन्पुरुहूत यामनि जीवा ज्योतिरशीमहि
इति ।
एते ह वै जीवा ज्योतिरश्नुवते ये संवत्सरस्योदृचमश्नुवते ।
मा नो अज्ञाता वृजना दुराध्यो माशिवासो अव क्रमुः
त्वया वयं प्रवतः शश्वतीरपो अति शूर तरामसि
इत्येता ह वै प्रवतः शश्वतीरापो यत्संवत्सर ऋतवो मासा अर्धमासा अहोरात्राण्युषसः ।
ता एवैतेनातितरन्ति ३९१