स्वर्भानुर्वा आसुर आदित्यं तमसाविध्यत् ।
तं देवाश्चर्षयश्चाभिषज्यन् ।
त एतानि दिवाकीर्त्यानि सामान्यपश्यन् ।
तैरस्य तमोऽपघ्नन् ।
तद्यदेतानि दिवाकीर्त्यानि भवन्त्यादित्यस्यैवैतैस्तमोऽपघ्नन्ति ।
यादृगह वै मनुष्यो देवेभ्यः करोति तादृगस्मै देवाः कुर्वन्ति ।
तद्यदेतानि दिवाकीर्त्यानि भवन्त्यात्मन एवैतैस्तमोऽपघ्नते ।
भ्राजाभ्राजे पवमानयोर्मुखे भवतः ।
अङ्गेभ्य एवास्य तत्तमोऽपघ्नन्ति ।
महादिवाकीर्त्यं पृष्ठं विकर्णं ब्रह्मसाम ।
मध्यत एवास्य तत्तमोऽपघ्नन्ति ।
दशस्तोभं भासमग्निष्टोमसाम ।
शीर्षत एवास्य तत्तमोऽपघ्नन्ति ।
असावादित्य एकविंशो विषुवांस्तस्य दिवाकीर्त्यान्येव रश्मयः ।
तद्यदेतानि दिवाकीर्त्यानि भवन्त्येतमेवैतैः पर्यूहन्त्येतं समर्धयन्ति ।
तदाहुः केन संवत्सरसद स्वर्गलोक इति ।
मूर्धानं दिवो अरतिं पृथिव्या इत्यग्निष्टोमसाम भवतीति ब्रूयात् ।
तेनेति ।
असौ वै दिवो मूर्धा योऽसौ तपत्येतमेवैतेनाभ्यारोहन्ति ।
तदाहुः प्रेव वा एतेऽस्माल्लोकाच्च्यवन्ते य एतमभ्यारोहन्तीति ।
अरतिं पृथिव्या इति भवति ।
अयं वै लोकोऽरतिः पृथिव्या अस्मिन्नेवैतल्लोके प्रतितिष्ठन्ति ।
दशस्तोभं भासमग्निष्टोमसाम भवति दशाक्षरा विराडन्नं विराड्विराज एवान्नाद्यस्यावरुद्ध्यै ।
ईश्वरा ह त्वन्यस्मै मूर्ध्नान्नाद्यं हर्तोर्य एतासु मूर्धन्वतीष्वग्निष्टोमसाम कुर्वन्तीति ।
तदनुष्टुभ्येव कार्यम् ।
वाग्वा अनुष्टुबन्नं दशस्तोभम् ।
मुखतो वै वागियं मुखतो एवैतदात्मनोऽन्नाद्यं दधते तस्मादनुष्टुभ्येव कार्यमिति ३९०