३८९

एकविंशो विषुवान्भवति ।

एकविंशो वा अस्य भुवनस्य विषुवान् ।

द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशः ।

सर्वस्मिन्वा एषोऽस्मिन्नधि प्रतिष्ठितः ।

तद्यस्मिन्नेष सर्वस्मिन्नधि प्रतिष्ठितस्तस्मिन्सर्वस्मिन्नधि प्रतितिष्ठामेति ।

तस्माद्वायव्यानुष्टुप्प्रतिपद्भवति ।

वाक्च वै वायुश्चैतं देवतानामानशानौ ।

तौ यावेतं देवतानामानशानौ ताभ्यामेनमश्नवामहा इति ।

यद्ध वै वायुर्न पवेत प्रासाविदं तेजसा दहेदग्निर्वैश्वानरः प्रजा आददीत । वायव्या प्रतिपद्भवत्यग्नेरेव वैश्वानरस्य शान्त्या अप्रदाहाय ।

तदाहुर्वीव वा एते प्राणैरृध्यन्ते ये पावमानीभिः प्रतिपद्यन्त इति ।

तद्यदेषा वायव्या प्रतिपद्भवति प्राणो वै वायुः प्राणैरेव तत्समृध्यन्ते ।

वायो शुक्रो अयामि त इति शुक्रवती भवति ।

शुक्रियं ह्येतदहः ।

मध्वो अग्रं दिविष्टिष्विति तदु मधव्या अग्र्या ब्रह्मवर्चसिनो भवन्ति ।

आ याहि सोमपीतय इति सौमी तेन पावमानी क्रियते ।

स्पार्हो देव नियुत्वतेत्यस्यौ वै स्पार्होऽन्नं नियुत्वदेतमेव तदन्नाद्येनाभ्युपयन्ति ।

यो वै श्रेयांसमाहरन्नुपैति प्रति वै स तं नन्दति ।

अथ य एनमनाहरन्नुपैति न वै स तं प्रतिनन्दति ।

तद्यदेषा वायव्यानुष्टुप्प्रतिपद्भवत्येष नः प्रतिनन्दादेतमृध्नवामेति ।

तदु वा आहुः पवस्व वाचो अग्रिय इत्येव प्रतिपत्कार्येति ।

वाग्वा इयं वितता यदिमे लोकाः ।

तस्या अदोऽग्रं तपति यदसावादित्यः ।

तद्यदेषा पवस्व वाचो अग्रिय इति प्रतिपद्भवत्येतमेवैतदेतया अभिप्रतिपद्यन्ते ।

स यथात्मनात्मानमारभेतैवमेवैनमेतत्स्वेन रूपेणारभन्ते ।

यद्वेवैतत्पदं पवस्वेत्यवस्तात्पर्यूढं भवति तेनायं वायुरवस्तात्पर्यूढः पवतेऽनिर्दाहाय ३८९