३८८

आत्मा वै पृष्ठ्यष्षडहः प्रजा स्वरसामानः ।

प्रजो वा अस्मत्परेति ।

वाग्वै वयमिमे स्मः ।

वागस्मत्परेति ।

तद्यदेषोऽभिजिदन्तरेण भवति प्रजननं वा एष एतदन्तर्धायैव तिष्ठति ।

तं यत्पुरस्तात्पृष्ठ्यस्य षडहस्य पर्यूहन्त्यनन्तर्हितात्प्रजननात्प्रजायामहा इति ।

त उ वै सप्तदशा भवन्ति ।

प्रजापतिर्वै सप्तदशः ।

प्रजापतिः प्रजानां प्रजनयिता ।

स यः प्रजानां प्रजनयिता तेन प्रजाताः प्रजायामहा इति ।

त उ वा आनुष्टुभा भवन्ति वाग्वा अनुष्टुब्वाक्प्रजननं वाचः प्रजननात्प्रजायामहा इति ।

त उ वा उक्थ्या भवन्ति पशवो वा उक्थान्यन्नं पशवः पशुभ्योऽन्नाद्यात्प्रजां नेदन्तरयामेति ।

तदु होवाच शाट्यायनिरनादृत्य भाल्लबेयस्य वदनमभिजित एवाध्युपेत्यम् ।

यो वा एष पृष्ठ्यष्षडहस्स एवाभिजित् ।

आयतनेन ये वा एते पृष्ठ्यस्य षडहस्य स्तोमास्त एवैते ।

एको वै पृष्ठ्ये षडहे सप्तदशः ।

अथैतस्मिंस्त्रयस्सप्तदशाः ।

तं वावैतदेतं स्तोमं कृत्वा प्रजनयन्ति ।

तद्यत्सप्तदशादेव सप्तदशं प्रजनयन्ति सप्तदशात्सप्तदशं सप्तदशात्सप्तदशम् ।

परस्तादु वै विश्वजिति त्रयस्सप्तदशाः ।

ते वावैतदुभये सम्पद्य प्रजनयन्ति ।

तेषां वा अत्र प्रतिष्ठा ।

अभिजित एवाध्युपेत्यमिति ३८८