३८७

तद् आहुरात्मा वै पृष्ठ्यष्षडहोऽन्नं सप्तदशः ।

यत्पृष्ठ्यात्षडहात्सप्तदशं निर्हरेयुरन्नाद्यं बहिर्धा कुर्युरशनायुका स्युः ।

त्रयस्त्रिंशादेवोपेत्यमिति ।

त्रयस्त्रिंशद्वै सर्वा देवताः ।

सर्वा उ ह वै देवतास्सम्पद्य प्रजापतिमुद्वा आप्नुवन्ति न वा ।

तत्तत्समादेव सममुपयन्ति ।

वर्ष्मणो वा वर्ष्म ।

वर्ष्म हि पिता ।

अथो उत्क्रान्तिरेव ।

पिता हि पुत्राच्छ्रेयान् ।

त उक्थ्या भवन्ति पशवो वा उक्थानि पशूनामेवावरुद्ध्यै ।

तदाहुर्विलोमेव वा एतद्यज्ञः क्रियते यदाग्निष्टोमौ विश्वजिदभिजितौ भवतोऽग्निष्टोमो विषुवानुक्थ्या स्वरसामानः ।

सर्व एवाग्निष्टोमाः कार्या इति ।

वर्ष्म वा अग्निष्टोमो वर्ष्म विषुवान् ।

वर्ष्मणैव तद्वर्ष्म सन्दधति ।

वर्ष्मणा वर्ष्म रोहन्ति ।

तेजो वा अग्निष्टोमस्तेजो विषुवांस्तेजसैव तत्तेजस्सन्दधति तेजसा तेजो रोहन्ति ।

अथ ह काम्यकीया इति सत्रिणोऽयस्थूणगृहपतयस्सत्रं निषेदुः ।

तान्हेन्द्र द्युम्नो भाल्लबेयोऽभिप्रधावयां चकार -पुत्रं विषुवता स्तावयिष्यामीति ।

तेषां ह पृष्ठ्यस्य षडहस्यैकेनाह्नास्तुतमाजगाम ।

स होवाच साधु हैवाकृत यदस्तोढ्वम् ।

यत्त्वहमिहाभविष्यमन्यथातो विषुवन्तमकल्पयिष्यमिति ।

कथं भगवोऽकल्पयिष्य इति हैनं पुत्र उवाच ।

स होवाच पुरस्तादेव पृष्ठ्यस्य षडहस्याभिजितमुपेत्य पृष्ठ्यादेव षडहात्स्वरसाम्न उपैष्यमिति ३८७