३८६

स्वर्भानुर्वा आसुर आदित्यन्तमसाविध्यत् ।

तं देवाश्चर्षयश्चाभिषज्यन् ।

त एतानि स्वराण्यपश्यन् ।

तैरेनमस्पृण्वन् ।

यदस्पृण्वंस्तत्स्वराणां स्वरत्वम् ।

तद्यदेतानि स्वराणि भवन्त्यादित्यमेवैतै स्पृण्वन्ति ।

यादृगह वै मनुष्यो देवेभ्यः करोति तादृगस्मै देवाः कुर्वन्ति ।

तद्यदेतानि स्वराणि भवन्त्यात्मानमेवैतै स्पृण्वते ।

सप्तदशा स्वरसामानो भवन्त्येकविंशो विषुवान् ।

प्रजापतिर्वै सप्तदशोऽसावादित्य एकविंशः ।

पित्रैव तत्पुत्रं पर्यूहन्ति ।

पिता हि पुत्राय कन्तमः पुत्रो हि पित्रे कन्तमः ।

यदत्रान्यं स्तोममवदध्युः प्रासौ तं तेजसा दहेदग्निर्वैश्वानरः प्रजा आददीत ।

षडेते स्वरसामानो भवन्ति ।

षडृतवः ।

ऋतुष्वेवैनं तदध्यूहन्ति तस्मादेषस्त्रीनृतून्दक्षिणैति त्रीनुदङ् ।

स यथा पुत्रः पितॄननुसञ्चरेत्तादृगेवैतदजामितायै ।

अजामि हि पुत्रः पितॄननुसञ्चरति ।

अथैतौ विश्वजिदभिजितावभित स्तोमानां वीर्यम् ।

वीर्येण ह वा एतौ विषुवन्तं दाधर्तुः ।

तदाहु स्तोमकृन्तत्रमिव वा एतत्स्तोमा यन्ति यत्त्रयस्त्रिंशात्सप्तदशमुपयन्तीति ।

पुरस्तादेव पृष्ठ्यस्य षडहस्याभिजितमुपेत्य पृष्ठ्यस्यैव षडहस्य यन्मध्ये सप्तदशमहस्तदुपरिष्टात्त्रयस्त्रिंशस्य पर्यूहेयुः ।

तद्यत्सप्तदशादेव सप्तदशमुपयन्ति समात्समं न स्तोमकृन्तत्रं स्तोमा यन्ति नार्तिमार्च्छन्ति ३८६