३८५

तत्सप्ताक्षरणिधनं भवति ।

सप्त वै प्राणाः ।

प्राणैरेव तत्समृध्यमाना यन्ति प्राणेषु प्रतितिष्ठन्तः ।

अन्वहं गौरिवीतं भवति ।

अतिरिक्तं वा एतद्ब्रह्मणो यद्गौरिवीतम् ।

अतिरिक्तान्येतान्यहानि यान्यहीनस्य ।

अतिरिक्ता एव तदतिरिक्तं ब्रह्मणो रसं दधतो यन्ति ।

अन्वहं प्लवो भवति स्वर्गस्यैव लोकस्य समष्ट्यै ।

ए इत्येवान्तरिक्षमतिप्लवन्ते ।

आति विश्वानि दुरिता तरेमेति यत्किं च यज्ञस्य दुष्टुतं दुश्शस्तं विधुरं तदतितरन्ति ।

तद्द्वादशाक्षरणिधनं भवति ।

द्वादश मासास्संवत्सरः ।

मासेष्वेव तत्संवत्सरे प्रतितिष्ठन्तो यन्ति ।

तदाहुः प्रेव वा एतेऽस्माल्लोकाच्च्यवन्ते य एतान्पराचष्षडहानुपयन्तीति ।

ओकोनिधनं षष्ठेऽहनि कुर्युः ।

अयं वै लोकः पुरुषस्यौकः ।

अस्मिन्नेवैतल्लोके प्रतितिष्ठन्ति ।

तद्वेवाचक्षते प्रहितोस्संयोजनमिति ।

अहोरात्रे वै प्रहितौ ।

प्रहिते इव ह्येते चरतः ।

अथ ह वा एतत्षडहा वीव छिद्यन्ते यदा षष्ठमहरागच्छन्ति ।

स यथाश्वं संयोजनेन संयुज्यादेवमेवैतेन साम्ना षडहान्संयुञ्जन्तो यन्ति ।

तदाहुः कार्यमोकोनिधनं पृष्ठ्ये षडहा३इति ना३इति ।

नेति ब्रूयात् ।

एतदग्रा वै षडहा यत्पृष्ठ्य एतदन्ता ।

एतं वावैतेन प्रेप्स्यन्त्येतमभीवर्तेनैतं प्लवेनैतं सुज्ञानेन ।

पुनःप्रयोग इव स्याद्यदेतदत्र कुर्युः ।

तस्मादेतदत्र न कार्यमिति ३८५