३८४

अनुष्टुभो वा अन्यानि सामान्यन्नम् ।

अनुष्टुबेवान्येषां साम्नामन्नम् ।

यानि वा अभिक्रान्त्यपक्रान्तानि सामानि तान्यनुष्टुबोऽन्नम् ।

तैरेनां ये व्यर्धयन्ति तानेषाविभूषिताप्रीताज्ञातास्वा वागभिवदत्यलूलुभन्नृतूनश्रद्दधाना अयक्षत नारात्सुरिति ।

अथ य एनां तैस्समर्धयन्ति तानेषा तृप्ता प्रीता ज्ञाता स्वा वागभिवदत्यचीक्ळ्पन्नृतूञ्श्रद्दधाना अयक्षतारात्सुरिति ।

अन्वहं सुज्ञानं भवति ।

स ह वा उद्गाता सत्रिणस्सत्राय दीक्षयेद्यदि य एनान्देवानां देवक्षेत्रमभ्यारोहयेत् ।

न ह वै देवानां देवक्षेत्रमभ्यारुह्य बिभेति नाशनायति न पिपासति नार्तिमार्च्छति ।

सुज्ञानं ह वाव देवानां देवक्षेत्रम् ।

तदाहुः प्रेव वा एतेऽस्माल्लोकाच्च्यवन्ते येऽन्वहं सुज्ञानमुपयन्तीति ।

तद्यद्रा थन्तरमह स्यात्तस्मिन्पौष्कलमुपेयुर्बार्हतेऽहन्सुज्ञानम् ।

तदु वा आहुस्सुज्ञाने वावैतानि सर्वाणि रूपाणीति ।

सुवर्विद इत्येवास्य लोकस्य रूपमे इत्यन्तरिक्षस्य सुवरित्यमुष्य ३८४