३८३

यो वै पुनर्निवृत्तमध्वानमेति नैनं स समश्नुते ।

अथ य एनमपुनर्निवृत्तमेति स एवैनं समश्नुते ।

पुनर्निवृत्तमिवैते यन्ति ये द्वा उपयन्ति ।

त्रैष्टुभबार्हता एवोपेत्या इति ।

त्रैष्टुभबार्हतो वै माध्यन्दिनः ।

तद्यद्रा थन्तरमह स्यात्तस्मिन्बार्हतमुपेयुर्बार्हतेऽहंस्त्रैष्टुभम् ।

नैषां त्रैष्टुभाः प्रगाथा आप्यन्ते न बार्हताः ।

यथायतनं छन्दांसि युज्यन्तेऽयातयामानमु संवत्सरमासते ।

तदु वा आहुर्द्वावेवोपेत्यौ श्यैतनौधसयोरेव प्रगाथाविति ।

अथा उ ह वै वीर्यवत्तमावेता उ ह वै स्वर्गस्य लोकस्य मे पन्थावञ्जसायनौ यद्बृहद्र थन्तरे ।

तयोरेतेऽञ्जसायने यच्छ्यैतनौधसे ।

अहरहरेवैतदञ्जसा स्वर्गं लोकमुपयन्ति ।

तस्यैष श्लोको

महापथाद्विश्ववयो यदुद्रुध्यते पुरुषः

तमेव सृप्त्वाजिं श्रान्तः पुनरभ्याजिगांसति

इति ।

महापथे वा एते सत्यपथं प्रतिपद्यन्ते येऽन्यान्प्रगाथानुपयन्ति ।

अथैते अहरहरेवाञ्जसा स्वर्गं लोकमुपयन्ति ये श्यैतनौधसयोः प्रगाथावुपयन्ति ।

तस्माद्द्वावेवोपेत्यौ श्यैतनौधसयोरेव प्रगाथाविति ३८३