तदाहुरयातयामानीव वा एतच्छन्दांसि युञ्जति यदेनानि यातयामानि सन्ति ।
तानि सर्वाणि पुनः पुनः प्रयुञ्जते ।
यानेव वीर्यवत्तमान्प्रगाथान्मन्येरंस्तान्प्रणिश्चित्य षट्त्रिंशदुपेयुरिति ।
षट्त्रिंशदक्षरा वै बृहती ।
बृहती स्वर्गो लोकस्साम्राज्यम् ।
बृहत्यामेव तत्स्वर्गे लोके साम्राज्ये प्रतितिष्ठन्तो यन्ति ।
षडुत्सर्गं त्रिंशता पुनरभ्यावर्तमयातयामतायै ।
अथो आहुस्त्रयस्त्रिंशदेवोपेत्या इति ।
त्रयस्त्रिंशद्वै सर्वा देवताः ।
सर्वास्वेवैतद्देवतासु प्रतितिष्ठन्तो यन्ति ।
त्रीनुत्सर्गं त्रिंशता पुनरभ्यावर्तमयातयामतायै ।
अथो आहुस्त्रिंशदेवोपेत्या इति ।
त्रिंशदक्षरा विराडन्नं विराट् ।
विराज्येव तदन्नाद्ये प्रतितिष्ठन्तो यन्ति ।
अथो आहुश्चतुर्विंशतिरेवोपेत्या इति ।
चतुर्विंशत्यर्धमासो वै संवत्सरः ।
अर्धमासश एव तत्संवत्सरे प्रतितिष्ठन्तो यन्ति ।
अथो आहुर्द्वादशैवोपेत्या इति ।
द्वादश मासास्संवत्सरः ।
मासश एव तत्संवत्सरे प्रतितिष्ठन्तो यन्ति ।
अथो आहुष्षडेवोपेत्या इति ।
षड्वा ऋतवः ।
ऋतुष्वेव तत्प्रतितिष्ठन्तो यन्ति ।
अथो आहुश्चत्वार एवोपेत्या इति ।
चतस्रो दिशश्चतुष्पदाः पशवः ।
दिक्षु चैतत्पशुषु च प्रतितिष्ठन्तो यन्ति ।
अथो आहुस्त्रय एवोपेत्या इति ।
त्रयो वा इमे लोकाः ।
एष्वेव तल्लोकेषु प्रतितिष्ठन्तो यन्ति ।
अथो आहुर्द्वावेवोपेत्याविति श्यैतनौधसयोरेव प्रगाथाविति ।
श्यैतनौधसयोर्ह खलु वै प्रगाथौ वीर्यवत्तमौ ।
द्विपाद्यजमानः प्रतिष्ठित्यै ३८२