सकृत्परस्तादभीवर्तं पर्यस्यन्ति ।
तस्माद्गर्भा जायमानाः पर्यावर्तन्ते ।
पुरा ह खलु वै पञ्चमान्मासो बार्हताः प्रगाथा आप्यन्त ।
उष्णिहं च त्रिष्टुभं च द्वे छन्दसी संयुज्य पञ्च मासस्समापयेयुः ।
अनुष्टुभं च पङ्क्तिं च द्वे छन्दसी संयुज्य षण्मासस्समापयेयुरेकच्छन्दः परिशिष्य ।
जगतीं तद्विषुवत्युपेयुः ।
जागतो वै विषुवान् ।
स्व एव तदायतने विषुवन्तं समर्धयन्ति ।
छन्दांसि वै स्वर्गो लोकः ।
स्वर्गमेव तल्लोकं रोहन्तो यन्ति ।
तदाहुर्वीव वा एतच्छन्दांसि विशन्ति यदेतानि द्वे द्वे संयुज्यन्ति ।
क्व ह्यद्यतनं च श्वस्तनं चाहनी सम्पत्स्यतः ।
सर्वाण्येव सप्त चतुरुत्तराण्युपेत्यानीति ।
गायत्रीमेव प्रथमेऽहन्नुपेत्योष्णिहं द्वितीयेऽनुष्टुभं तृतीये बृहत्या पञ्च मासस्समापयेयुः ।
पङ्क्तिमेव प्रथमेऽहन्नुपेत्य त्रिष्टुभा षण्मासस्समापयेयुरेकच्छन्दः परिशिष्य ।
जगतीं तद्विषुवत्युपेयुः ।
जागतो वै विषुवान् ।
स्व एव तदायतने विषुवन्तं समर्धयन्ति ।
छन्दांसि वै स्वर्गो लोकः ।
स्वर्गमेव तल्लोकं रोहन्तो यन्ति ३८१