अभीवर्तो ब्रह्मसाम भवति ।
अभीवर्तेन वै देवा इमाल्ँ लोकानभ्य-वर्तन्त ।
यदभ्यवर्तन्त तदभीवर्तस्याभीवर्तत्वम् ।
तद्यदभीवर्तो ब्रह्मसाम भवत्येषामेव लोकानामभिवृत्यै ।
प्रजापतिर्वा अभीवर्तः प्रजाश्छन्दांसि ।
स एष प्रजापतिः प्रजासु गर्भं दधदेति ।
अन्यास्वन्यास्वस्तुवन्ति समानेन साम्ना ।
रेत एव तत्सिञ्चन्ति ।
तस्माद्समानो बह्वीष्व्रेतो दधाति ।
समानीः परस्तादृचो भवन्त्यन्यदन्यत्साम ।
रेत एव तत्सिक्तं प्रजनयन्ति ।
तस्मात्समाना बहून्सूते ।
अन्यास्वन्यास्वस्तुवन्ति समानेन साम्ना ।
अन्यदन्यद्धि यन्तः पश्यन्ति ।
समानीः परस्तादृचो भवन्त्यन्यदन्यत्साम ।
यानेवेतो लोकान्प्रगाथैरभ्यारोहन्तो यन्ति तानमुतस्सामभिः प्रत्यवरोहन्त आयन्ति ।
ऋग्वा अयं लोकस्सामासौ ।
यदितो यन्तस्सामारभ्य यन्त्यमुं तल्लोकमारभ्य यन्ति ।
ते यत्पुरस्ताद्विषुवत उत्सृजेरन्नवामुष्माल्लोकाच्छिद्येरन् ।
यदमुत आयन्त ऋचमारभ्यायन्तीमं तल्लोकमारभ्यन्ति ।
ते यत्पुरस्ताद्द्वादशाहीयेभ्योऽहोभ्य उत्सृजेरन्नवास्माल्लोकाच्छिद्येरन् ३८०