तदाहुः प्लवमिव वा एतच्छन्दो यज्जगती न प्रायणाय ।
तत्स्थानं षडेव षट्त्रिंशानि स्तोत्राणि कुर्युष्षट्चतुर्विंशानीति ।
षट्त्रिंशदक्षरा वै बृहती ।
बृहती स्वर्गो लोकः साम्राज्यं ।
बृहत्यामेव तत्स्वर्गे लोके साम्राज्ये प्रतितिष्ठन्तो यन्ति ।
बृहत्यु ह वा इमान्सर्वाल्ँ लोकानक्षरैर्व्याप्नोति दशभिरेवाक्षरैरिमं लोकं व्याप्नोति दशभिरन्तरिक्षं दशभिरमुं चतुर्भिर्दिशो द्वाभ्यामहोरात्रे ।
सा येमांल्लोकान्व्याप्नोति तयेमांल्लोकान्व्याप्नवामेति ।
तस्मात्षडेव षट्त्रिंशानि स्तोत्राणि कुर्युष्षट्चतुर्विंशानीति ।
अथो चतुर्विंशत्यर्धमासो वै संवत्सरः ।
अर्धमासश एव तत्संवत्सरमाप्नुवन्ति ।
एते असृग्रमिन्दव इति बहुरूपां प्रतिपदं कुर्वीरन् ।
बहवो ह्येते दीक्षन्ते ।
तदु वा आहुः पवस्व वाचो अग्रिय इत्येव प्रतिपत्कार्या ।
एषा वै बहुरूपा ।
एतस्यां वै सर्वाणिरूपाणि ।
उभे प्रतिपदौ भवत उभे ह्यत्र सामनी क्रियेते ।
तर्हि यथौजिष्ठौ बलिष्ठौ वहिष्ठौ सम्पारयिष्णू महान्तमध्वानं संयुज्योपप्रेयात्तादृक्तत् ।
सर्वं पृष्ठरूपमनु समावर्तयन्ति यथा पित्रे च मात्रे च वत्साननु समावर्तयेत्तादृक्तथा ।
तदग्ने युङ्क्ष्वा हि ये तवेत्येतास्वग्निष्टोमसाम कार्यमाहुः ।
अग्निर्वा एष वैश्वानरो यत्संवत्सरः ।
तस्यैव युक्त्या अश्वासो देव साधव इति सिद्ध्यै अरं वहन्त्याशव इति समष्ट्यै ।
तदाहुर्यज्ञेन वा एते यज्ञानभियन्ति ये यज्ञायज्ञीयस्यर्ग्भ्योऽधि यज्ञायज्ञीयं च्यावयन्ति ।
अथैते यज्ञेन यज्ञे प्रतितिष्ठन्ति ये यज्ञायज्ञीयस्यर्क्षु यज्ञायज्ञीयं च्यावयन्ति ।
तस्माद्यज्ञायज्ञीयं स्वास्वेव कार्यमिति ३७९