तदाहुरीर्म इव वा एषा होत्राणां यदच्छावाको यदच्छावाकमनुसन्तिष्ठेतेर्म इव तुष्टुवाना स्युरिति ।
तस्य त्रैककुभं ब्रह्मसाम भवत्युद्वंशीयमच्छावाकसाम ।
इन्द्रि यं वै वीर्यं त्रैककुभं सर्वं पृष्ठरूपमुद्वंशीयम् ।
इन्द्रि ये चैव तद्वीर्ये सर्वस्मिंश्च पृष्ठरूपेऽन्ततः प्रतितिष्ठन्ति ।
तद्वा एनत्तत्प्राशंसत् ।
तदाहुरग्निष्टोम एव कार्य इति ।
तस्य द्वादश स्तोत्राणि भवन्ति ।
द्वादश मासास्संवत्सरः ।
एतदु ह वै संवत्सरस्य ज्यैष्ठ्यं पर्व यन्मासः ।
तद्यत्संवत्सरस्य ज्यैष्ठ्यं पर्व तेन नस्संवत्सर आरब्धोऽसदिति ।
ईश्वरा ह त्वपशवो भवितोः पशवो वा उक्थानि तेभ्यो हि यन्ति ।
तस्य त्रीणि स्तोत्राण्यष्टाचत्वारिंशानि कुर्युरुभौ पवमानौ ब्रह्मसाम ।
तावतीरुक्थ्यस्य स्तोत्र्याः ।
आप्नुवन्ति तं कामं य उक्थ्ये नो वा अग्निष्टोमाद्यन्ति ।
वर्ष्म वा अग्निष्टोमो वर्ष्म होता वर्ष्मणैव तद्वर्ष्म सन्दधति वर्ष्मणा वर्ष्मन्प्रतितिष्ठन्ति ।
श्रीर्वा अग्निष्टोमो ज्यैष्ठ्यं होता ज्यैष्ठ्येनैव तज्ज्यैष्ठ्यं सन्दधति ज्यैष्ठ्येन ज्यैष्ठ्ये प्रतितिष्ठन्ति ३७८