प्रायणीयमहर्भवति ।
प्रायणीयेन वा अह्ना देवा स्वर्गं लोकं प्रायन् ।
यत्प्रायंस्तत्प्रायणीयस्य प्रायणीयत्वम् ।
तद्यत्प्रायणीयमहर्भवति स्वर्गस्यैव लोकस्य समष्ट्यै ।
तस्मादु हैतस्याह्न ऋत्विजा बुभूषितव्यं स्वर्गस्य ह्येतल्लोकस्य नेदिष्ठम् ।
तच्चतुर्विंशं भवति ।
चतुर्विंशत्यर्धमासो वै संवत्सरः ।
अर्धमासश एव तत्संवत्सरमाप्नुवन्ति ।
एतदु ह वा एके सत्रिणोऽहरुपेत्योत्तस्थुरापाम संवत्सरमिति वदन्तः ।
ते ये कामङ्कामं समारेभाणा इव स्युस्त एतदेवाहरुपेत्योतिष्ठेयुः ।
आप्तो हैषां संवत्सरो भवति ।
तस्य त्रीणि च शतानि स्तोत्रिया भवन्ति षष्टिश्च ।
तावतीस्संवत्सरस्य रात्रयः ।
रात्रिश एव तत्संवत्सरमाप्नुवन्ति ।
तदाहुर्यत्संवत्सरसदस्संवत्सरस्याहानि सुन्वन्त आसतेऽथ केन रात्रीराप्नुवन्तीति ।
स ब्रूयाद्यावतीः प्रायणीयस्याह्न स्तोत्र्यास्तावतीस्संवत्सरस्य रात्रयः ।
प्रायणीयस्याह्न एव स्तोत्र्याभी रात्रीराप्त्वा अहानि सुन्वन्त आसत इति ।
तदुक्थ्यं भवति पशवो वा उक्थानि पशूनामेवावरुद्ध्यै ।
तस्य पञ्चदश स्तोत्राणि भवन्ति ।
पञ्चदश वा अर्धमासस्य रात्रयः ।
अर्धमासश एव तत्संवत्सरमाप्नुवन्ति ।
त्रिंशत्स्तुतशस्त्राणि भवन्ति ।
त्रिंशन्मासस्य रात्रयः ।
मासश एव तत्संवत्सरमाप्नुवन्ति ३७७