३७६

स इदं सर्वं भुवनं प्रजन्य पृष्ठ्येन षडहेनात्मन्नधत्त ।

तद्यदेष पृष्ठ्यष्षडहो भवति सर्वमेवैतेन भुवनं प्रजन्यात्मसु दधते ।

वर्ष्म वै पृष्ठानि ।

वर्ष्मण्येवैतत्प्रतितिष्ठन्ति ।

श्रीर्वै पृष्ठानि ।

श्रियामेवैतत्प्रतितिष्ठन्ति ।

ज्यैष्ठ्यं वै पृष्ठानि ।

ज्यैष्ठ्य एवैतत्प्रतितिष्ठन्ति ।

तेजो वै पृष्ठानि तेजस्येवैतत्प्रतितिष्ठन्ति ।

पशवो ह खलु वा अभिप्लवष्षडह आत्मा पृष्ठ्यः ।

यदभिप्लवं षडहमुपेत्याथ पृष्ठ्यमुपयन्ति पुरुषमेवैतत्पशुष्वध्यूहन्ति ।

तस्मात्पुरुष उपरिष्टात्पशूनधीव तिष्ठति ।

मूलं ह खलु वा अभिप्लवष्षडहोऽग्रं पृष्ठ्यः ।

यदभिप्लवं षडहमुपेत्याथ पृष्ठ्यमुपयन्ति तस्मादोषधयो मूलतो जायन्तेऽग्रतः पच्यन्ते ।

पञ्चैते षडहा भवन्ति ।

पाङ्क्तो यज्ञः ।

यावती यज्ञस्य मात्रा तस्यामेवैतत्प्रतितिष्ठन्ति ।

स मासस्सम्पद्यते ।

संवत्सरो वै मासः ।

मासश एव तत्संवत्सरमाप्नुवन्ति ।

तस्य त्रिंशद्रा त्रयो भवन्ति त्रिंशदक्षरा विराडन्नं विराड्विराज्येव तदन्नाद्ये प्रतितिष्ठन्तो यन्ति ३७६