प्रजापतिर्वावेदमग्र आसीत् ।
सोऽकामयत बहुः स्यां प्रजायेय भूमानं गच्छेयमिति ।
स तपोऽतप्यत ।
स एतं वैश्वानरं प्रायणीयमतिरात्रमपश्यत् ।
तस्मादहोरात्रे प्राजनयत् ।
अहोरात्रयोः प्रत्यतिष्ठत् ।
तद्यदेष वैश्वानरः प्रायणीयोऽतिरात्रो भवत्यहोरात्रे एवैतस्मात्प्रजनयन्त्यहोरात्रयोः प्रतितिष्ठन्ति ।
सोऽकामयत प्रैव जायेयेति ।
स एतस्मादेव वैश्वानरात्प्रायणीयादतिरात्रात्त्र्यहं निरमिमीत अग्निष्टोमादेव ज्योतिर्निरमिमीत उक्थ्येभ्यो गां रात्र्या आयुः ।
तस्मात्त्र्यहात्त्रीनृतून्प्राजनयत्त्रिष्वृतुषु प्रत्यतिष्ठत् ।
तद्यदेष त्र्यहो भवति त्रीनेवैतस्मादृतून्प्रजनयन्ति त्रिष्वृतुषु प्रतितिष्ठन्ति ।
सोऽकामयत प्रैव जायेयेति ।
स एतमेव षडहं परस्तात्पर्यौहत् ।
तौ द्वौ षडहावभवताम् ।
ताभ्यां द्वाभ्यां षडहाभ्यां द्वादश मासः प्राजनयद्द्वादशसु मासेषु प्रत्यतिष्ठत् ।
तद्यदेतौ द्वौ षडहौ भवतो द्वादशैवैताभ्यां मासः प्रजनयन्ति द्वादशसु मासेषु प्रतितिष्ठन्ति ।
सोऽकामयत प्रैव जायेयेति ।
स एतावेव षडहौ परस्तात्पर्यौहत् ।
ते चत्वारष्षडहा अभवन् ।
तेभ्यश्चतुर्भ्यष्षडहेभ्यश्चतुर्विंशतिमर्धमासान्प्राजनयच्चतुर्विंशत्यामर्धमासेषु प्रत्यतिष्ठत् ।
तद्यदेते चत्वारष्षडहा भवन्ति चतुर्विंशतिमेवैतेभ्योऽर्धमासान्प्रजनयन्ति चतुर्विंशत्यामर्धमासेषु प्रतितिष्ठन्ति ३७५