३७४

गावो वा एतदग्रे सत्रमासतान्नाद्यमवरुरुत्समानाः ।

ता दशमे मास्युदतिष्ठन्सर्वमन्नाद्यमवारुत्स्महीति मन्यमानाः ।

ता एता शृङ्गिणीः ।

तासां त्वा इवाब्रुवन्सर्वानेवैतान्द्वादश मासः समापयामेति ।

ता अतिप्रायुञ्जत ।

तासां द्वादशे मासि शृङ्गाणि प्रावर्तन्त ।

ता एतास्तूपराः ।

तस्मात्सत्रिणो द्वादशे मास्यपि शिखाः प्रवपन्ते ।

गवां हि तर्ह्यनुरूपा भवन्ति ।

ता उदतिष्ठन्नरात्स्मेत्याप्त्वा सत्रमाप्त्वा सर्वमन्नाद्यम् ।

तस्मादेतास्सर्वान्द्वादश मास उत्तिष्ठन्ति प्रत्वापि वार्षिकावपि शिशिरौ ।

सत्राभिजितं ह्यासामवरुद्धं ह्यासाम् ।

ते य एवं विद्वांसो द्वादश मासः समापयन्ति सर्वमेवान्नाद्यमवरुध्योत्तिष्ठन्ति ।

आत्मदक्षिणं ह खलु वै सत्रम् ।

लोमैव प्रथमाभ्यामुपसद्भ्यां स्पृण्वते त्वचं द्वितीयाभ्यां मांसं तृतीयाभ्यामस्थि चतुर्थीभ्यां मज्जानं पञ्चमीभ्याम् ।

यदेवैषां तत्र किं चास्पृतं भवति तदेव षष्ठीभ्यां स्पृण्वते ।

ते शुद्धाः पूता मेध्याश्शुचयो भूत्वा देवलोकमपियन्ति ३७४