३७३

एतं वा एत आरभ्य यन्तीन्द्रं प्रजापतिं विप्रं पदमृतुपात्रं विश्वान्देवान्स्वर्गं लोकम् ।

एतस्य वा एत आवृतमन्वावर्तन्त ।

एतस्य वा एत आवृतमन्वावर्तन्त एतस्य विमुक्तिमनु विमुच्यन्ते ।

तस्यैषा परिचक्षा यदपक्षीयमाणे सुत्यां गच्छन्त्यपक्षीयमाण उदृचमश्नुवते ।

द्वादश दीक्षाः कुर्वीरंस्तिस्र उपसदः ।

तेनैतदुभयमुपाप्नुवन्ति ।

तदु वा आहुरुपाहैवैतेनैतदुभयमाप्नुवन्तीति ।

सेव तु परिचक्षा यदपोऽनभिनन्दन्तश्शिशिरेऽवभृथमह्ब्यवयन्ति ।

समिव कोपयति हिमः ।

स य एनांस्तथा चक्रुषोऽनुव्याहरेदिति वेति वा भविष्यन्तीति तथा हैव स्युः ।

यैवासौ फाल्गुनस्यामावास्या तस्या उपरिष्टात्पञ्चाह षडहे दीक्षेरन् ।

यो वै श्रेयसो नियानेनैतीदमयासीदिदमयासीदिति न वै स रिष्यति श्रेयसो वा एते नियानेन यन्ति य आदित्यस्य ते स्वस्त्यरिष्टा उदृचमश्नुवते ते तद्गच्छन्ति यत्रैष आदित्यो गच्छति तत्ते तद्गत्वैतस्यैवायनेन पुनरायन्ति ३७३