३७२

स इन्द्र एतामष्टकामपश्यत् ।

तस्यामदीक्षत ।

स एकयाश्नुत ।

यदेकयाश्नुत तदेकाष्टकाया एकाष्टकात्वम् ।

ते य एवं विद्वांसो दीक्षन्ते सर्व एवाश्नुवते सर्वे विषुवन्तो भवन्ति ।

विषुवान्ह्येषोऽभवत् ।

ते यत्पुरस्ताद्दीक्षेरन्पितृलोके दीक्षेरन्प्रमायुकाः स्युर् ।

यदुपरिष्टाद्दीक्षेरन्यथा पूर्वं पलायितुमीप्सेत्तं वाप्नुयात्तं वा न तादृक्तत् ।

त एतस्यामेवाष्टकायां दीक्षेरन् ।

तद्यथा रथमुपस्थितमातिष्ठेद्धस्तिनं वा निषादितं तथा ।

कद्रि यञ्चस्सत्रिण इति वै पृच्छन्ति ।

नार्वाञ्चो न पराञ्च इति ब्रूयाद्यथासावादित्य इति ।

न ह वा एतेऽर्वाञ्चो न पराञ्चः ।

तिर्यञ्चो ह वा एते ।

नो ह वा असावादित्योऽर्वाङ्न पराङ्तिर्यङु ह वा एष ।

षड्वा एष मासो दक्षिणैति षडुदङ् ।

यान्दक्षिणैति ते पितृदेवत्या यानुदङ्ते देवदेवत्याः ३७२