गवामयनशेषः
सावित्रं पूर्वेद्युः पशुमालभन्ते ।
सविता वै देवानां प्रसविता सवितृप्रसूता एवैतत्संवत्सरमारभन्ते ।
को ह्येतमर्हत्यप्रसूत आरभम् ।
प्राजापत्यं श्वो भूत आलभन्ते ।
प्रजापतिश्रेष्ठा वै देवाः ।
श्रेष्ठत एवैतद्देवताः प्रीणन्ति ।
यो वै श्रेष्ठमराधयित्वाथान्यानीप्सति सर्वे वाव तस्य तेऽराधिता भवन्ति ।
अथ य श्रेष्ठं राधयित्वाथाप्यन्यानाद्रि यते सर्वे वाव तस्य तेऽभीष्ठाः प्रीता भवन्ति ।
प्रजापतिश्रेष्ठा वै देवाः ।
श्रेष्ठत एवैतत्सर्वा देवताः प्रीणन्ति ।
श्वेतो लोमशस्तूपरो लप्सुग्यन्यतोदञ्चतुष्पाद् ।
यच्छ्वेतो लोमशस्तदवीनां रूपम् ।
यत्तूपरस्तदश्वानाम् ।
यल्लप्सुगी तत्प्रुषाणाम् ।
यदन्यतोदळ्स्तद्गवाम् ।
यदजस्तदजानाम् ।
सर्वेषां वा एष पशूनां मेह्दः ।
सर्वेषामेवैतत्पशूनां मेधेन संवत्सरं पितरं प्रजापतिं प्रीणन्ति ।
स एनान्प्रीतः प्रीणाति ।
देवा वा ऋद्धिकामास्तपोऽतप्यन्त ३७१