स एवैष पदोरुच्छ्लङ्खः ।
त्रेधा विच्छिन्द्धीति ।
तं त्रेधा व्यच्छिनत् ।
सैवास्य श्रीरभवद्गौस्तृतीयं स्वप्नस्तृतीयं छाया तृतीयम् ।
तस्मादेतानि श्रेष्ठस्य भूयिष्ठानि ।
भूयिष्ठाः पशवो ज्येष्ठा छाया स्वपिति ।
स षक्षत यं म इमं पाप्मानमवोचद्धन्तेममपैव छिनदा इति ।
स एतदेव ब्रह्माष्टधा व्यौहत् ।
अष्टाक्षरा गायत्री ।
ब्रह्म गायत्री ।
ब्रह्मैव तदष्टधा व्यौहत् ।
तमष्टाभिस्त्रिवृद्भिः पराञ्चमपौहत् ।
तमष्टाभिः पञ्चदशैः पराञ्चमपौहत् ।
तमष्टाभिः सप्तदशैः पराञ्चमपौहत् ।
तमष्टाभिरेकविंशैः पराञ्चमपौहत् ।
तमष्टाभिस्त्रिणवैः परार्धमगमयत् ।
तमष्टाभिस्त्रयस्त्रिंशैरपैवाछिनत् ।
स एवैष उपरिष्टादतिरात्रः ।
पाप्मा हास्यैषोऽपोढः ।
अथो एष एव प्रजापतिर्योऽसौ तपति ।
स एषोऽपहतपाप्मा तपति ।
तस्य छाया नास्ति ।
तस्मादु छायामभि च ष्ठीवेदभि च मेहेत् ।
पाप्मानमेव तद्धते ।
सुप्त्वोदकमाचामेत् ।
पाप्मानमेव तद्धते ।
गामुपाष्टां हनीत ।
पाप्मानमेव तद्धते ।
ते य एवं विद्वांस एता रात्रीरुपयन्ति सर्वमेव पाप्मानमपहत्योत्तिष्ठन्ति ।
ईश्वरा ह त्वपशवो भवितोः पशवो वा उक्थानि पशून्हि स तत्राप्यपौहत् ।
ते ये श्रीकामा स्युस्त एता रात्रीरुपेयुः ।
एता ह स्म वै तत्पुरा कुरुपाञ्चालानां ब्राह्मणा श्रीकामा उपयन्ति ।
ते हागवोऽभद्रा आसुः ।
सजातेषु हैवैषां पशव आसुः ।
ततो ह स्मैव गोरुहायागताय गामुपाञ्जन्ति ।
ततोऽदेयाय ददुः ।
तदु होवाच शाट्यायनिर्न तां वदेद्या परिचक्षा ।
यदाकामीना वै श्रियां पशवो यदाकामीनं वित्तं पशुमन्तश्च भविष्याम श्रेष्ठाश्च रात्स्यामश्चेत्येवं मन्यमाना एता रात्रीरुपेयुरिति ।
तथा हैव भवति ।
वैश्वानर उदयनीयोऽतिरात्रो भवति ।
वैश्वानरोदयना ह्यहीनास्सोमाः ३७०