३६९

अथैता एण्य एककृष्णाः ।

एण्यो ह वै नामैता रात्रयः ।

तासु कृष्णोऽपि मिथुनत्वाय प्रजननाय ।

प्र मिथुनेन जायते य एवं वेद ।

तं वा त्वै पुरस्तादुपेयुस्तं वोपरिष्टात् ।

यदि पुरस्तादुपेयुः पुंस्प्रणेत्रा असन्निति ।

यद्युपरिष्टात्पश्चाद्वै पुमान्योषायां रेतो दधाति रेतोधेयाय ।

प्रजापतिर्वावेदमग्र एकोऽसृज्यत नान्यं द्वितीयं पश्यमानः ।

स षक्षताहं वाव प्रथमोऽजनिष्यहं श्रेष्ठोऽस्म्यस्ति स्विन्मदिहान्या३इति ।

स व्यैक्षत ।

सोऽन्यदात्मनोऽध्युत्तरतो ज्यायस्तिष्ठदप्श्यत् ।

तदपृच्छत्किमिदमसि यदिदमसीति ।

ब्रह्म वा अस्मीत्यब्रवीत् ।

तदब्रवीतावं वाव प्रथमावजनिष्वह्यावं श्रेष्ठौ स्वस्संसृजावहै सहासावेति ।

नेत्यब्रवीत् ।

पाप्मगृहीतो वा असीति ।

स मे क्व स पाप्मेति ।

एष ते शीर्षन्निति ।

तं वै मेऽवजहीति ।

तथेति ।

तमवाहन् ।

तं ग्रीवास्वसिनात् ।

तं समपीडयत् ।

तदेतत्परिगृहीतकमिवावजहीति ।

तमवाहन् ।

तं नीव्यामसिनात् ।

तं समपीडयत् ।

तदेतत्परिगृहीतकमिवावजहीति ।

तमवाहन् ।

तं कुल्फयोरसिनात् ।

तं समपीडयत् ।

तदेतत्परिगृहीतकमिवावैव जहीति ।

तमवाहन् ।

पदाभितिष्ठेति ।

तं पदाभ्यतिष्ठत् ३६९