\सन्धिषाम तेन न स्तुतमसदिति ।
अथो वाग्वै रथन्तरं वागाश्विनं वाग्वै वाचं प्रति विभवितुमर्हतीयं वाग्वाचं प्रति विभवादिति ।
एतदु ह वै द्वितीयं प्रज्ञातं सन्धिषाम यज्जराबोधीयम् ।
तद्यद्द्वितीयं प्रज्ञातं सन्धिषाम तेन न स्तुतमसदिति ।
अथ श्रुधीयं कीर्तिमत् ।
सामवृक्तिरु सन्धिषामनी ।
तद्यदाभ्यां सन्धिषामभ्यामवृक्ष्महि तन्नोऽस्य लोकवतस्साम्नः पशवो लोकमनूपतिष्ठान्ता इति ।
अथ नानदगौरिवीते लोकवती सामनी भूयांसं नो लोकमनूपतिष्ठान्ता इति ।
तदाहुस्त्रिरेवाश्विनं शस्तव्यमिति त्रिषत्या वै वाक् ।
त्रय इमे लोकाः ।
यदतिरात्रेऽतिरात्र आश्विनं शंसेद्विकर्षस्स वाचः ।
होतारं ब्रूयादाश्विनक्रतूनेवान्येष्वतिरात्रेष्वशंस त्रिरेवाश्विनं शस्तव्यमिति प्रायणतो मध्यत उदयनतः ।
एतद्ध वै समृद्धमाश्विनं यद्र थन्तरेण सम्पद्यते ।
यद्येकेन सम्पद्येत रथन्तरमेव प्रायणतो मध्यत उदयनतो यदि द्वाभ्यां रथन्तरमेव प्रायणतो मध्यत उदयनतो यदि त्रिभी रथन्तरमेव प्रायणतो मध्यत उदयनतो न चतुर्भिस्सम्पद्यते नो एव पञ्चभिः ३६८