अथैता द्वादशाहवतीर्भवन्ति यैवासौ द्वादशाहवतीनां प्रशंसा सा न उपाप्तासदिति ।
अथैतानि चतुरुत्तराणि छन्दांस्युपयन्ति ।
चतुरुत्तरा वै वाचो रोहाः ।
वाचमेवैते रोहन्ति ।
अथो चतुष्पदा वै पशवः ।
तद्यदेतानि चतुरुत्तराणि छन्दांस्युपयन्ति चतुष्पदामेव पशूनामवरुद्ध्यै ।
अथैतानि अथैतानि द्वियन्तराण्युपाहरन्ति ।
चतुरुत्तराणि द्वियन्तराणि ।
न ह वै तावच्छ्रियमश्नुते यावद्द्विपदां चतुष्पदां पशूनामैश्वर्यमाधिपत्यं न गच्छति ।
तद्यदेतानि द्वियन्तराण्युपाहरन्ति चतुरुत्तरद्वियन्तराणि द्विपदां चतुष्पदां पशूनामैश्वर्यमाधिपत्यं गच्छामेति ।
अथैतान्यष्टान्तराण्युपाहरन्ति चतुरुत्तरद्वियन्तराणि सर्वाणि चतस्रो दिशश्चत्वारोऽवान्तरदेशा दिशां स उपरिष्टाल्लोको यः पुण्यस्सर्वासु दिक्षु प्रतिष्ठाय स्वर्गं लोकं गच्छामेति ।
अथैतानि पञ्च सन्धिषामानि भवन्ति रथन्तरं जराबोधीयं श्रुधीयं नानदगौरिवीते इति ।
एतद्ध वा एकं प्रज्ञातं सन्धिषाम यद्र थन्तरम् तद्यदेकं प्रज्ञातम् ३६७