३६६

तद्ये ह वा एत आदित्यस्योदञ्चो रश्मयस्त आदित्या ये दक्षिणास्तेऽङ्गिरसः ।

ते हैत आदित्याश्चाङ्गिरसश्च सलोकाः ।

सलोको ह वा आदित्यैश्चाङ्गिरोभिश्च भवति य एवं वेद ।

अथैतौ द्वौ त्र्यहौ भवतष्षडहानि ।

षड्वा ऋतवः ।

ऋतुष्वेव तत्प्रतितिष्ठन्ति ।

अथैतौ द्वावुत्तरौ त्र्यहौ भवतष्षडु एवाहानि ।

अभिपूर्वमेव तदृतुषु प्रतितिष्ठन्ति ।

अथैते षडतिरात्रा भवन्त्युक्तब्राह्मणाः ।

अथैते त्रयस्त्र्यहा भवन्त्युक्तब्राह्मणाः ।

अथैते चत्वारस्त्र्यहा भवन्ति द्वादशाहानि ।

द्वादश मासास्संवत्सरः ।

मासा एव तद्भूत्वा मध्यतस्संवत्सरमतीत्य स्वर्गं लोकं रुरुहुः ३६६