आदित्याश्च वा अङ्गिरसश्च स्वर्गे लोकेऽस्पर्धन्त ।
त आदित्याः पूर्वे स्वर्गं लोकमगच्छन् ।
तेऽङ्गिरसोऽकामयन्त वयमपि तं लोकं गच्छेम यमादित्या अग्मन्निति ।
ते येन येनैवायनेनायंस्ततस्तत एनान्प्रत्यपानुदन्त ।
तान्ह परश्चत्वारिंशानि वर्षाणि प्रत्येव नुनुदिरे ।
त एतदयनमपश्यन् ।
तदेवासीदन् ।
यथाविधमिव तदुपायन् ।
ततो वा अङ्गिरसस्तं लोकमगच्छन्यमादित्याः ।
सा ह खलु वै श्रेष्ठर्द्धीनां स लोकानां पुण्यतमो यमेतेनाङ्गिरसोऽगच्छन् ।
सा या श्रेष्ठर्द्धीनां यो लोकानां पुण्यतमो यमेतेनाङ्गिरसोऽगच्छंस्तं गच्छामेति ३६५