३६४

तद्वैराजपृष्ठं भवत्यन्नं वै वैराजमन्नाद्यस्यैवावरुद्ध्यै ।

तदुक्थ्यं भवति पशवो वा उक्थान्यन्नं पशवोऽभिपूर्वस्यैवान्नाद्यस्यावरुद्ध्यै ।

तत्षोडशिमद्भवति वज्रो वै षोडश्यन्नं विराड्वज्रेणैवान्नाद्यं परिगृह्णन्ति ।

तदेकविंशं भवति द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशः ।

एतद्वै दैव्यं क्षत्रम् ।

क्षत्रिय उ वा अन्नाद्यस्य प्रदाता ।

स योऽन्नाद्यस्य प्रदाता स नोऽन्नाद्यं प्रयच्छादिति ।

अथैते चत्वारस्त्रियहा भवन्ति द्वादशाहानि ।

द्वादश वै संवत्सरस्य पौर्णमास्यः ।

पौर्णमासीनामेवैषा सम्मा पौर्णमासीनामृद्धिः ।

अथैष पृष्ठ्यष्षडहो भवति ।

श्रीर्वै पृष्ठानि वर्ष्म वै पृष्ठानि ।

तच्छ्रियं वर्ष्म पृष्ठानि रोहन्ति ।

तदु सत्रिणो भवन्ति ।

अथैते चत्वार उत्तरे त्र्यहा भवन्ति द्वादशो एवाहानि ।

द्वादश वै संवत्सरस्यामावास्याः ।

अमावास्यानामेवैषा सम्मामावास्यानामृद्धिः ।

द्वादशैतानि परस्तात्पृष्ठ्यस्य षडहस्याहानि भवन्ति द्वादशावस्तात् ।

तस्मात्समावतीस्संवत्सरस्य पौर्णमास्यश्चामावास्याश्च ।

वैश्वनर उदयनीयोऽतिरात्रो भवति ।

वैश्वानरोदयना ह्यहीनास्सोमाः ३६४