अथैते ज्योतिर्गौरायुरिति स्तोमा भवन्ति ।
एते ह वै शिवाश्शान्ताः पथ्या स्तोमा ये ज्योतिर्गौरायुरिति ।
ते ये शिवाश्शान्ताः पथ्या स्तोमास्तैर्न स्तुतमसदिति ।
त उ विराजं सम्पन्नाः ।
तदु विराजमन्नाद्यमारभन्ते ।
बृहद्र थन्तरे सामनी भवतः ।
सा ह्यृद्धिस्स पन्थाः ।
श्यैतनौधसे ब्रह्मसामनी भवतः ।
प्रस्पष्टमाजिमनु शूकरवामेति ।
अथैते षडतिरात्रा भवन्ति ।
षड्वै पुरुषे पाप्मानष्षड्विषुवन्त स्वप्नश्च तन्द्री च मन्युश्चाशनया चाक्षकाम्या च स्त्रीकाम्या च ।
तानेवैतैरपघ्नते तानतितरन्ति ।
अथैते त्रयस्त्र्यहा भवन्ति ।
नवाहानि ।
नव वै पुरुषे प्राणाः ।
प्राणानामेवैषा सम्मा प्राणानामृद्धिः ।
अथैतद्वैराजपृष्ठं दशममहर्भवति ।
नाभिर्ह सा तद्वा एतदाक्षित्सदहरेतेष्वहस्सु नियुक्तम् ।
यस्मादेतदाक्षित्सदहरेतेष्वहस्सु नियुक्तं तस्मादाक्षित्सती नाभिः प्राणेसु नियुक्ता ।
प्राणतो ह्येनामनूदनित्यपानतोऽन्वपानिति ।
तदेतेषामह्नां दशमं भवति दशाक्षरा विराट् ।
अन्नं विराड्विराज एवान्नाद्यस्यावरुद्ध्यै ३६३