३६२

आदित्याश्च वा अङ्गिरसश्च स्वर्गे लोकेऽस्पर्धन्त ।

त आदित्या अकामयन्त वयं पूर्वे स्वर्गं लोकं गच्छेमेति ।

त एतदयनमपश्यन् ।

तदुपायन् ।

ततो वा आदित्याः पूर्वे स्वर्गं लोकमगच्छन्नहीयन्ताङ्गिरसः ।

सा ह खलु वै श्रेष्ठर्द्धीनां स लोकानां पुण्यतमो यमेतेनादित्या अगच्छन् ।

सा या श्रेष्ठर्द्धीनां यो लोकानां पुण्यतमो यमेतेनादित्या अगच्छंस्तं गच्छामेति तस्मादेता रात्रीरुपयन्ति ।

वैश्वानरः प्रायणीयोऽतिरात्रो भवति ।

वैश्वानरप्रायणा ह्यहीनास्सोमाः ३६२