३६१

त्रिमास्यं वा एतत्सत्रं तेन यर्द्धिस्सैवर्द्धिः ।

यौ ह खलु वै द्वौ मासावृतोस्सर्द्धिः ।

ऋतुरु प्रत्यक्षं संवत्सरस्यर्द्धिः ।

अथ यस्तृतीयो मासस्त्रयोदशस्य स मासस्यर्द्धिः ।

संवत्सरं वा एतदीर्त्सन्ति संवत्सरमीप्सन्ति यद्यजन्ते यत्सत्रमासते ।

न हि किं चन बहिस्संवत्सरादस्ति ।

स्वाराज्यं वा एता रात्रयो यदेकान्नपञ्चाशच्चतुर्विंशतिः परस्तादहानि चतुर्विंशतिरवस्तात् ।

चतुर्विंशत्यर्धमासस्संवत्सरः ।

संवत्सर एवैष उभयतः पर्यूढः । यन्मध्ये अहस्स स्वराट्स स्वर्गो लोकः ।

तद्ब्रध्नस्य विष्टपं गच्छन्ति तत्स्वाराज्यं गच्छन्ति ।

तदन्यस्याननुयाना भवन्ति ।

ता वा एता रात्रयस्सम्पद्यन्ते जगतीमेव ।

पशवो वै जगती ।

तेनैतत्सत्रं पशव्यमुपो विराजं गच्छन्ति ।

तदु विराजोऽन्नाद्यस्यैश्वर्यमाधिपत्यं गच्छन्ति ।

एकोना विराडूनं तत्स्त्रियै यतस्सा प्रजायते तेनो प्रजननम् ।

गायत्रीमु दीक्षोपसद्भिश्च सुत्याभिश्च सम्पद्यन्ते ।

प्राणो वै गायत्री तेनैतत्सत्रमायुष्यम् ।

तेजो वै गायत्री तत्तेजस्विनो ब्रह्मवर्चसिनो भवन्ति ।

ज्यैष्ट्यं वै गायत्री तद्वभ्रातृव्ये ज्यैष्ठ्ये प्रतितिष्ठन्ति ३६१